विजयादशम्याः कथा

विजयादशम्याः कथा कौत्सः वरतन्तुतः सर्वाः विद्याः लब्ध्वा तं गुरुदक्षिणां प्रदायेतुं तस्य समीपं गत्वा अपृच्छत् यत् गुरुवर्य कामपि गुरुदक्षिणां स्वीकरोतु। प्रारम्भे वरतन्तु दुर्लक्षम् अकरोत् किन्तु पुनः पुनः यदा सः विनन्तिम् अकरोत् तदा सः अकथयत् यत् चतुर्दश विद्यायाः कृते चतुर्दशसहस्त्राः सुवर्णमुद्राः यच्छतु। तस्मिन्समये रघुराजा महादानशीलः इति विख्यातः। कौत्सः रघुं प्रति गत्वा चतुर्दशसहस्त्राः सुवर्णमुद्राः अयाचत। रघु संवत्सरे एकवारं सर्वस्य धनस्य दानं कृत्वा रिक्तः भवति स्म। कौत्सस्य आगमनात् पूर्वं सः एतदकरोत्। याचकाय विन्मुखं न प्रेषणीयं इति विचार्य सः कुबेरेण सह योद्धुं सज्जः अभवत्। कुबेरः युद्धस्य कारणं ज्ञात्वा रघोः नगरस्य सीम्नः बहिः शमीवृक्षस्योपरि सुवर्णमुद्राणां वृष्टिमकरोत्। रघुः कौत्सं अवदत् यत् सर्वाः सुवर्णमुद्राः नयतु ।कौत्सः आवश्यकतानुसारेण चतुर्दशसहस्त्राः सुवर्णमुद्राः अनयत्। उर्वरिताः मुद्राः प्रजाजनाः परस्परम् आदाय प्रदाय राजाज्ञया स्वीकुर्वन्तः। अतः विजयादशम्याः दिने सर्वे सीमोल्लङ्घनं कृत्वा शमीपत्राणि सुवर्णपत्राणि इव परस्परं वितरन्ति इति प्रथा प्रचलिता। —हेमन्तः कुलकर्णी, मुलुण्ड, मुम्बई.

This entry was posted in Sanskrit Posts and tagged . Bookmark the permalink.